Monday, December 26, 2011

कठोर: परीक्षासमय:

चिन्तयामि यत् किं भवति परीक्षसमये यत् कस्मिन्नपि कार्ये मनस: रुचि: न भवति ॥ विशिष्टरूपेण मम कृते परीक्षासमय: अत्यन्तकठोर: भवितुं आरभ्यते यत: पाठ्यक्रम: तु विशाल: समय: न्यून:॥
जानामि , जानामि - पूर्णवर्षे अपठनस्य एव परिणाम: भवति एषा अवस्था , परन्तु छात्रा भूत्वा एतद् ज्ञातुं न शक्ये ॥ प्रत्येकं वर्षे प्रयासं करोमि येन पठने मम रुचि: स्यात् परन्तु वर्षारम्भे आलस्यस्य प्रचुरता भवति ॥ यथा यथा परीक्षा: निकटम् आगच्छन्ति तथा तथा एव अस्य अनुभूति: भवति यत् "किञ्चित् तु करणीयम्" ॥

अत: अस्मिन् वर्षे मम संकल्प: स्वीकृतोsस्ति  मया प्रयासार्थम् ॥ पश्यामि किं भविष्यति ॥ तावत्पर्यन्तं नमस्कार: ॥

No comments:

Post a Comment